(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.6. अध्यायः 006
Mahabharata - Udyoga Parva - Chapter Topics
द्रुपदेन धृतराष्ट्रंप्रति स्वपुरोहितप्रेषणम् ॥ 1 ॥ पुरोहितस्य हास्तिनपुरगमनम् ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text

द्रुपद उवाच। 5-6-0x(3335)(31803)
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः।
बुद्धिमत्सु नराः श्रेष्ठा नरेष्वपि द्विजातयः ॥ 5-6-1(31804)
द्विजेषु वैद्याः श्रेयांसो वैद्येषु कृतबुद्धयः।
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवादिनः ॥ 5-6-2(31805)
स भवान्कृबुद्धीनां प्रधान इति मे मतिः ।
कुलेन च विशिष्टोऽसि वयसा च श्रुतेन च।
प्रज्ञया सदृशश्चासि शुक्रेणाङ्गिरसेन च ॥ 5-6-3(31806)
विदितं चापि ते सर्वं यथावृत्तः स कौरवः ।
पाण्डवश्च यथावृत्तः कुन्तीपुत्रो युधिष्ठिरः ॥ 5-6-4(31807)
धृतराष्ट्रस्य विदिते वञ्चिताः पाण्डवाः परैः ।
विदुरेणानुनीतोऽपि पुत्रमेवानुवर्तते ॥ 5-6-5(31808)
शकुनिर्बुद्धिपूर्वं हि कुन्तीपुत्रं समाह्वयत् ।
अनक्षज्ञं मताक्षः सन्क्षत्रवृत्ते स्थितं शुचिम् ॥ 5-6-6(31809)
ते तथा वञ्चयित्वा तु धर्मराजं युधिष्ठिरम् ।
न कस्यांचिदवस्थायां राज्यं दास्यन्ति वै स्वयम् ॥ 5-6-7(31810)
भवांस्तु धर्मसंयुक्तं धृतराष्ट्रं ब्रुवन्वचः ।
मनांसि तस्य योधानां ध्रुवमावर्तयिष्यति ॥ 5-6-8(31811)
विदुरश्चापि तद्वाक्यं साधयिष्यति तावकम्।
भीष्मद्रोणकृपादीनां भेदं संजनयिष्यति ॥ 5-6-9(31812)
अमात्येषु च भिन्नेषु योधेषु विमुखेषु च।
पुनरेकत्र करणं तेषां कर्म भविष्यति ॥ 5-6-10(31813)
एतस्मिन्नन्तरे पार्थाः सुखमेकाग्रबुद्धयः।
सेनाकर्म करिष्यन्ति द्रव्याणां चैव सञ्चयम् ॥ 5-6-11(31814)
भिद्यमानेषु च स्वेषु लम्बमाने तथा त्वयि।
न तथा ते करिष्यन्ति सेनाकर्म न संशयः ॥ 5-6-12(31815)
एतत्प्रयोजनं चात्र प्राधान्येनोपलभ्यते।
संगत्या धृतराष्ट्रश्च कुर्याद्धर्म्यं वचस्तव ॥ 5-6-13(31816)
स भवान्धर्मयुक्तश्च धर्म्यं तेषु समाचरन् ।
कृपालुषु परिक्लेशान्पाण्डवीयान्प्रकीर्तयन् ॥ 5-6-14(31817)
वृद्धेषु कुलधर्मं च ब्रुवन्पूर्वैरनुष्ठितम् ।
विभेत्स्यति मनांस्येषमिति मे नात्र संशयः ॥ 5-6-15(31818)
न च तेभ्यो भयं तेऽस्ति ब्राह्मणो ह्यसि वेदवित् ।
दूतकर्मणि युक्तश्च स्थविरश्च विशेषतः ॥ 5-6-16(31819)
स भवान्पुष्ययोगेन मुहूर्तेन जयेन च।
कौरवेयान्प्रयात्वाशु कौन्तेयस्यार्थसिद्धये ॥ 5-6-17(31820)
वैशम्पायन उवाच। 5-6-18x(3336)
तथाऽनुशिष्टः प्रययौ द्रुपदेन महात्मना।
पुरोधा वृत्तसंपन्नो नगरं नागसाह्वयम् ॥ 5-6-18(31821)
शिष्यैः परिवृतो विद्वान्नीतिशास्त्रार्थकोविदः ।
पाण्डवानां हितार्थाय कौरवान्प्रतिजग्मिवान् ॥ ॥ 5-6-19(31822)

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि षष्ठोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-6-2 वैद्याः विद्यावन्तः । कृतबुद्धयः सिद्धान्तज्ञाः ॥ 2 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.